काकी-कृष्णसर्प-कथा — Tale Of The Crow And The Black Snake

काकी-कृष्णसर्प-कथा — Tale Of The Crow And The Black Snake

उपायेन हि यत्कुर्यात्तन्न शक्यं पराक्रमैः ।

अस्ति कस्मिंश्चित्प्रदेशे महान् न्यग्रोधपादपः । तत्र वायसदम्पती प्रतिवसतः स्म । अथ तयोः प्रसवकाले वृक्षविवरान्निष्क्रम्य कृष्णसर्पः सदैव तदपत्यानि भक्षयति । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वोचतुः — “भद्र! किमेवंविधे सञ्जाते आवयोः कर्तव्यं भवति । एष तावद् दुष्टात्मा कृष्णसर्पो वृक्षविवरान्निर्गत्यावयोर्बालकान् भक्षयति । तत्कथ्यता तद्राक्षार्थं कश्चिदुपायः । उक्तञ्च” — यस्य क्षेत्रं नदीतीरे, भार्या च परसङ्गता । ससर्पे च गृह वासः, कथं स्यात्तस्य निर्वृतिः ॥12002918_901018076655361_591727804988268130_n

“अस्माकमपि तत्रस्थितानां प्रतिदिनं प्राणसंशयः।”

स आह — “नात्र विषये स्वल्पःअपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् । (यतः–) उपायेन जयो यादृग्रिपोस्तादृङ् न हेतिभिः । उपायज्ञः अल्पकायः अपि न शूरैः परिभूयते” ॥

वायस आह — “भद्र! तत्कथय कथं स दुष्टसर्पो वधमुपैष्यति ?” श्रगाल आह — “गच्छतु भवान् कञ्चिन्नगरं राजाधिष्ठानम् । तत्र कस्यापिधनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत्कोटरे प्रक्षिप, येन सर्पस्तद् ग्रहणेन वध्यते”।

अथ तत्क्षणात् काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चिस्तरः प्राप्य यावत्पश्यति, तावत्तन्मध्येोकस्यचिद्गाज्ञोऽन्तःपुरं जलासन्नं न्यस्तकनकसूत्रं मुक्ताहारवस्त्राभरणं जलक्रीडां कुरुति । अथ सा वायसी कनकसूत्रमेकमादाय स्वगृहभिमुखं प्रतस्थे । कञ्चकिनो वर्षवराश्च तन्नीयमानमुपलक्ष्य, गृहीतलगुडाः सत्वरमनुयतुः । काक्यपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरमवस्थिता ।

अथ यावद्नाजपुरुषास्तं वृक्षमारुह्य तत्कोटरमवलोकयन्ति, तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति । ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः । वायसदम्पती अपि ततःपरं सुखेन वसतः ।