मूर्खकच्छप-कथा — The Foolish Tortoise

मूर्खकच्छप-कथा — The Foolish Tortoise

सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥

अस्ति कस्मिश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेहकोटिमाश्रिते, नित्यमेव सरस्तीरमासाद्य तेन सहानेकदेवर्षिमहर्षीणां कथाः कृत्वास्तमनवेलायां स्वनीडसंश्रयं कुरुतः ।

The foolish tortoise

अथ गच्छता कालेनानावृष्टिवशात्सरः शनैः शनैः शोषमगमत् । ततस्तद् दुःखदुखितौ तावूचतु — “भो मित्र! जम्बालशेषमेतत्सरः सञ्जातं, तत्कथं भवान्भविष्यतीति व्या कुलत्वं नो हृदि वर्तते ।”

तच्छ्रुत्वा कम्बुग्रीव आह — “भो ! साम्प्रतं नास्त्यस्माकं जीवितव्यं जलाभावात् । तथाप्युपायश्चिन्त्यतामिति । उक्तञ्च” —

त्याज्यं न धैर्यं विधुरेऽअपि काले, धैर्यात्कदाचित्स्थितिमाप्नुयात्सः । जाते समुद्रेऽपि च पोतभङ्गे, सांयात्रिको वाञ्छति तर्त्तुमेव ॥

“अपरञ्च” —

मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥

तदानीयतां काचिद् दृढरज्जुर्लघुकाष्ठं वा । अन्विष्यतां च प्रभूतजलसनाथं सरः, येन मया मध्यप्रदेशे दन्तैर्गृहीते सति युवां कोटिभागयोस्तत्काष्ठं मया सहितं संगृह्य तत्सरो नयथः ।

तावूचतु :– “भो मित्र! एवं करिष्यावः । परं भवता मौनव्रतेन स्थातव्यम्, नो चेत्तव काष्ठात्पातो भविष्यति । तथानुष्ठिते, गच्छता कम्बुग्रीवेणाधोभागे व्यवस्थितं कि़ञ्चित्पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य, सविस्मयमिदमूचुः – “अहो, चक्राकारं किमपि पक्षिभ्यां नीयते, पश्यत! पश्यत!” ।

अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह — “भोः किमेष कोलाहलः?” इति वक्तमना अर्धोक्त एव पतितः, पौरैः खण्डशः कृतश्च ।