सिंह-शशक-कथा – The Lion And The Rabbit

सिंह-शशक-कथा – The Lion And The Rabbit

यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम्? । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥rabbit and lion

कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान्नित्यमेवानेकान् मृगशशकादीन् व्यापादयन्नोपरराम । अथान्वेद्यस्तद्वनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः — स्वामिन् किमनेन सकलमृगवधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति, तक्रियतामस्माभिः सह समयधर्मः । अध्यप्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेप्यति । एवं कृते तव तावत्प्राणयात्रा क्लेशं विनापि भविष्यति, अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोSनुष्ठीयताम् ।

अथ तेषां तद्वचनमाकर्ण्य भासुरक आह — “अहो सत्यमभिहितम भवाद्भिः । करं यदि ममोपविष्टस्यात्र नित्यमेव नैकेको मृगः समागमिष्यति तन्नूनं सर्वानपि भक्षयिष्यामि” ।

अथ ते तथेति प्रतिज्ञाय निवृतिभाजस्त्रव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं जातिक्रमेण वृद्धो वा, वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा तेषां नध्यात्तस्य भोजनार्थ मध्याह्नसमये उपतिष्ठति ।

अथ कदाचि़ज्जातिक्रमाच्छशकस्यावसरः समायातः । स समस्तमृगप्रेरितोSनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वा व्याकुलितहृदयो यावद्गच्छति तावन्मार्गे गच्छता कूपः संदृष्टः । यावत्कूपोपरि याति तावत्कूपमध्ये आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदयेन चिन्तितम् यद् — भव्य उपायोSस्ति । अहं भासुरकं प्रकोप्य स्वबुद्धयाSस्मिन्कूपे पातयिष्यामि ।

अथासौ दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोsपि वेलातिक्रमेण क्षुत्क्षामकण्ठः ।

कोपाविष्टः सक्कणी परिलिहन्नचिन्तयत् — अहो प्रातराहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याSग्रे स्थितः ।

अथ तं लतात्मा भासुरको भर्त्यन्नाह — “रे शशकाधम ! एकस्ताव्रत्त्व लघुः प्राप्तः अपरतो वेलातिक्रमेण । तदस्मादपराधात् त्वां निपात्य, प्रातः सकलान्यपि मृगकुलान्युच्छेदयिष्यामि ।”

अथ शशकः सविनयं प्रोवाच –” स्वामिन् ! नापराधो मम, न चान्यमृगाणाम् । तच्छ्रूयतां कारणम् ।”

सिंह आह — “सत्वरं निवेदय, यावन्मम् दंष्टान्तर्गतो न भवान्भवति” इति ।

शशक आह — “स्वामिन् समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय, ततोSहं पञ्चशशकैः समं प्रेषितः । ततमाश्चाहमागच्छन्नन्तराले महता केनचिदपरेण सिंहेन क्षितिविवरान्निर्गत्याभिहितः –” रे ! कः प्रस्थिता यूयम् अभीष्टदेवतां स्मरत ।

ततो मयाभिहितम् — “वयं स्वामिनो भासुरकसिंहस्य सकाशमाहारार्थ समयधर्मेण गच्छामः ” ।

ततस्तेनाभिहितम् — “यद्येवं तविं मदीयमेतद्वनम् । मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चौररूपी स भासुरकः । अथ यदि सोSत्र राजा ततो विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्, येन यः कश्चिदावयोर्मध्यापराक्रमेण राजा भविष्यति” इति ।

ततोSहं तेनादिष्टः स्वामिसकाशमभयागतः । ऐतद्वलाव्यतिक्रमकारणम् । तदत्र स्वामी प्रमाणम् ।

तच्छ्रुत्वा भासुरक आह – “भद्र! यद्येवं , तत्सत्वरं दर्शय मे तं चौरसिंहं, येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि ।” उक्तञ्च

भूमिमित्रं हिरण्यम च विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां न त कुर्यात्छञ्चन ॥ यत्र न स्यात्फलं भूरि यत्र न स्यात्पराभवः । म तत्र मतिमान्युद्धं समुत्पाद्य समाचरेत् ॥

शशक आह –” स्वामिन् सत्यमिदम् । सवभूमिहितोः परिभवाच्च युद्धयन्ते क्षत्क्षियाः । परं स दुर्गाश्रयः , दुर्गान्निष्क्रम्य वयंतेन विषकम्भिताः । तो दुर्गस्थो दुःसाध्यो भवति रिपुः ।”

भासुरक आह — “भोः ! किं तवानेन व्यापारेण ? दर्शय मे तं दुर्गस्थमपि ।”

शशक आह — “यद्येवं तर्ह्यागच्छतु स्वामी ।” एवमुक्त्वाSग्रे व्यवस्थितः । ततश्च तेनाSSगच्छता यः कूपो दृष्टोSभूत्तमेव कूपमासाद्य भासुरकमाह — “स्वामिन् ! कस्ते प्रतापं सोढुं समर्थः । त्वां दृष्ट्वा दूरतोSपि चौरसिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ, येन दर्शयामि” इति ।

भासुरक आह — “दर्शय मे दुर्गम्”

तदनु दशिस्तेन कूपः । ततः सोSपि मूर्खः सिंहः कूपमध्ये आत्मप्रतिबिम्बं जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच । ततः प्रतिशब्देन कूपमध्याद् द्विगुणतरो नादः समुत्थितः । अथ तेन शत्रुं मत्वातमानं तस्योपरि प्रक्षिप्य , प्राणाः परित्यक्ताः । शशकोsपि हृष्टमनाः सर्वमृगानानन्द्य , तैः प्रशस्यमानो यथासुखं तत्र वने निवसति स्म ।