महर्षि भारद्वाज:

सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः । परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते । सप्तर्षिषु अन्यतमस्य भरद्वाजस्य कथा अत्र उत्तमम् उदाहरणम् अस्ति । भरद्वाMaharishiजः अत्रिमुनेः पुत्रः आदिकाव्यस्य रामायणास्य कर्तुं वाल्मीकिमुनेः शिष्यः च । सः वेदाध्ययने, देवध्याने च निरतः आसीत् ।

यदा मराकालः सन्निहितः तदा पुनः इन्द्रस्य ध्यानं कृत्वा – ‘मम आयुः वर्धयतु’ इति प्रार्थितवान् भरद्वाजः । प्रत्यक्षीभूतः इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान । दूरे उन्नताः त्र्यः पर्वताः द्दश्यन्ते स्म । इद्न्रः भरद्वज्स्य अञ्जल्यां मुष्टित्रयपरिमिताः सिकताः स्थापितवान् । भरद्वाजः मौनं स्थितवान् आसीत् ।

“दूरे स्थितानां पर्वतानां महत्वं मनसि निधाय भवान् वदतु -अञ्जल्यां स्थितानां सिकतानां परिमाणं कियत् ?” इति प्रुष्ट्वान क्न्द्रः । “क्क ते पर्वताः क्क च अञ्जलिमिताः सिकताः ! महत् अन्तरम् एतयोः ” इति उक्तवान् भाद्वाजः । तदा इन्द्रः -“भवता ज्ञातं वेदज्ञानम् अपि मुष्टिपरिमितम् एव । बवता पर्वतपरिमितं ज्ञातव्यम् अस्ति ” इति उक्तवान् इन्द्रः ।

भरद्वाजः मदवचनात् भीतः सन्- यावत् ज्ञातं तावता अलम् इति वदेत् , अथवा अहङ्कार्ण -मया सर्वं ज्ञातम् अस्ति इति व वदेत्’ इति इन्द्रः चिन्तितवान् आसीत् । भरद्वाजः तु किञ्चितकालं यावत् मौनं स्थित्वा – “तर्हि ज्ञानं नाम तावत् बृहत वा ! तत् मया सम्पादनीयम । भवतः आशीर्वादःअ अस्ति चेत् तान् त्रीन् अपि पर्वतान् मदीयान् करिष्यामि” इति म्,अहता विनयेन उक्तवान । भरद्वाजस्य द्दढम् आत्मविश्वासम्, उन्नतध्येयं च ज्ञात्वा इन्द्रः आश्चर्यचकितः अभवत् । सः भरद्वाजं पुनः अपि शतवर्षपरिमितेन आयुषा अनुगृह्य अद्दश्यतां गतः ।